________________
[२१६]
योगअनन्तकालजातेऽपि, जगत्पूर्ण न रच्यते। जगन्निर्माणता पूर्णा, कदापि नैव सम्भवेत् ॥७८१ स्वीकारे प्रथमे पक्षे, पृथिवी पर्वतादीनाम् । अनन्तानां पदार्थानां, निर्माणं क्रमतो भवेत् ॥७॥ देहव्यापकता पक्षः, भवद्भिरेव भक्षितः। सङ्कल्प पक्षस्वीकारे, व्यापकत्वं न सिध्यति ॥८॥ नियतदैशिकत्वेन, कार्य सर्व विधीयते । यथा विद्याधरा देवाः, स्वस्थानस्थाश्च सर्वदा ॥८॥ दूरस्थान्यपि कार्याणि, करोति चैक हेलया। तथा च भवदीशो न, नियत दौशिकस्थः किम् ॥८२॥ सङ्कल्पतश्च तत्कार्य, किं न कुर्यादथो वद् ? दोषापत्तिश्च नास्त्येव,व्यापको मन्यते कथम् ॥३॥ नियमित प्रदेशस्थे, श्रुति बाधः प्रजायते । संसारव्यापकत्वेतु, युक्ति बाधो महान्भवेत् ॥४॥ ज्ञानस्याप्राप्य कारित्वे, दोष लेशो न विद्यते । यन्मते प्राप्य कारित्वं, तन्मतेऽनेक दोषता ॥५॥ अशुचिस्वादनादीनां, नारक वेदनादीनाम् । अन्धकारानुभूतीनां, परस्त्रीसङ्गमादानाम् ॥८६॥