________________
- प्रदीप
[ २१५ ]
सोऽपि सम्भोग सम्बन्धः निरन्तरं प्रजायते । नियमस्तु गृहस्थानां परस्त्री विषये सदा ॥६६॥ तवेशस्य व्रतं नास्ति, महच्चित्रमिदं मतम् । अनेकदोषसद्भावे, व्यापकत्वं न देहतः ॥७०॥ सर्वव्यापकता ज्ञानादीशस्य यदि मन्यते । तदा क्षतिर्न जैनानामिष्टा पत्तिस्तु सर्वदा ॥७१॥ जैनैर्व्यापकता मान्या कैवल्यज्ञानद्वारतः ।
।
किन्तु तवैव सिद्धान्त व्याघातः सर्वथा भवेत् ॥७२॥ विश्वतश्चक्षुरुत विश्वतोमुखं, विश्वतः पाणि । उत विश्वतो बाहु, विश्वतः पादः इति श्रुतिः ॥७३॥ देहव्यापकता सिद्धिः करोति सर्वथा श्रुतिः । ज्ञानव्यापकता चैव भवद्भिर्मन्यते कथम् ॥७४॥ कथ्यते यदि सर्वत्र व्यापकत्वं न मन्यते । नियतस्थान मन्तव्ये, कार्यसिद्धिः कुतो भवेत् ॥७५॥ अनियत प्रदेशानां कार्यं कुर्यात्कथं सदा । मन्तव्यो व्यापकश्चैव, सिद्धिः स्यादन्यथा नहि ॥७६॥ तदध्यचारुमन्तव्यं, जगद्विरचनं देहाकिंवा, सङ्कल्पतो मतम् ॥१७॥
प्रश्नानामवकाशतः ।
१ शुक्लयजुर्वेदे