________________
[२१४]
योगतत्सदृशमिदं ज्ञेयं बुद्धि मूसल सादृशी। तीक्ष्णबुद्धरेभावेन, कल्पना तादृशी कृता ॥६॥ ईश्वरो व्यापकश्चैव कल्पनेति न युज्यते। देहाच व्यापकत्वं वै, अथवा ज्ञानतो भवेत् ॥३१॥ शरीराव्यापकत्वे च बाधः प्रत्यक्षतो भवेत् । सर्वजगति सर्वत्र तिष्ठतीति प्रजल्पने ॥२॥ अनन्तः प्राणिनश्चान्ये, अजीवाश्च धरातले । तव मते क तिष्ठन्ति, अवकाशो न कुत्रचित् ॥६॥ पदार्थाः सन्ति नान्येऽपि वक्तुमिति न युज्यते। नैयायिकस्य ग्रन्थेषु, त्वयैवं प्रतिपादिताः ॥६॥ तव मतेऽपरे जीवाः, सर्वे ते व्यापका मताः। अतो वद समेषाञ्च, अवकाशः क विद्यते ॥६॥ देहव्यापकमन्तव्ये, अशुचि स्वादनं भवेद् । नारकवेदनादीनां, अनुभवोऽपि सर्वदा ॥६६॥ कुत्र चित्स्त्रीषु कहिचित्सम्भोगोऽपि प्रजायते । गुह्य स्थानस्य सम्बन्धाब्यापकत्वे महाक्षतिः ॥६७॥ सम्भोगोऽपि सदा ज्ञेयः परस्त्री पातकी भवेत् । विषयासक्त जीवानामीशता न भवेत्कदा ॥८॥