________________
-प्रदीप
[ २१३ ]
एकेशेन कृतं सर्वं, व्यर्था कुलालयत्नता । मातापित्रोस्तु संयोगः, निष्फलो जायते सदा । ५१ । पित्रोरुपकृतिश्चैव, कथं पुत्रेण मन्यते ।
तत्रेश्वरस्य कत्तृत्वं पितृणां न कदाचन ॥ ५२ ॥ नवमासान्तपर्यन्तं मात्रोदरेषु धारितः ।
"
प्रसूतिर्योनिद्वारा वै, मात्रा कृता च प्रेमतः ॥ ५३ ॥ ईश्वरेण न किञ्चिच, कार्यं कृतं कदाचन । उपकारं कथं तस्य, मन्यामहे वयं तथा ॥५४॥ स्त्रीसंयोगादिकं सर्वं दण्डभ्रमि क्रियाऽपि वै । कृता चैकेश्वरेणैव सर्वेषां निष्फलः श्रमः ॥५५॥ स्यादेतत्कुम्भकारादेः कारणं न निषिध्यते । किन्त्वन्येषाञ्च सर्वेषां, कार्याणां कार को विभुः ॥ ५६ ॥ मक्षिका मधुमण्डादि, कार्यं कुर्वन्ति सर्वदा ।
"
सर्वे जनाः प्रपश्यन्ति, अपलापश्च कीदृशः ॥५७॥
1.
वेमत्यस्य च सद्भावादेकमीशञ्च कल्पते । तर्हि त्वत्कल्पना ज्ञेया, कृपण व्यय सादृशी ॥ ५८ ॥ यथा प्रलोभि जीवश्च, धनव्ययश्च भोजने । दृष्ट्वा गृहं परित्यज्य, देशान्तरे गतः खलु ॥ ५६ ॥
*