________________
[ २१० ]
योग
हेतौ च व्यभिचारित्वमनुमानेऽप्रमाणता ॥ २४॥ अदृश्ये विग्रहे मान्ये, तत्रारेका तु जायते । महात्म्यं तादृशं तत्र, देहे सति न दृश्यते ||२५|| भाग्यहीनाः स मे किंवा, पश्यति न हि वैग्रहम् । तादृगद्भुत माहात्म्यं, ईशस्य किमु दृश्यते ॥ २६॥ इत्येवमपि वाक्यं तु प्रमाणविफलं मतम् । शपथैर्माननीयं स्यादन्या गति र्न विद्यते ॥ २७॥ जगत्कर्त्ती' महात्म्यस्य, सिद्धिरदृश्यदेहतः । अदृश्य देह सिद्धिश्च तादृगीश महात्म्यतः | २८ इत्यन्योन्याश्रयो दोषः महात्म्यस्वीकृतौ भवेत् । अतो हि प्रथमः पक्षः, नादर्त्तव्य कदाचन ॥२६॥ द्वितीय पक्षस्वीकारे, संशयस्तत्र जायते । आकाशपुष्पवत्तत्स्यात्सर्वथा ऽविद्यमानतः ॥ ३०॥ अतस्तन्नैव दृश्येत, भाग्यस्य न्यूनताऽथवा ! इति संशयसद्भावे, निर्णयो नैव जायते ॥३१॥ अनादीशोऽप्यदेहोऽस्ति, वैषम्यं तन्मते भवेत् । ज्ञातदान्तिके चैव, ज्ञातव्ये ज्ञानमिच्छता ॥ ३२॥
,
१- दृष्टान्त ।