________________
-प्रदीप
[२०६] उत्तरपक्षःमानं नैयायिकं दत्तं, जगत्कर्तृत्व साधकम् । व्याप्त प्रमाणतः सिद्धिः, यावत्तु न विधीयते।१६। ईश्वरेषु च तावद्व, कर्तृत्वं नैव सिध्यति । प्रश्नावकाशता तत्र, जायते च मनीषिणाम् ॥१७॥ त्वदिष्टो जगदीशः किं, सशरीरोऽन्यथा भवेत् । शरीरधारकेशे च, प्रश्नावकाशता बहु ॥१८॥ दृश्यशरीरधारी किं, सदास्मदादिवत्किम। पिशाचवच्च किं वा स्याद् दृश्य-विग्रही किमु ।१६। दृश्यशरीरधारित्वे, मन्तव्ये न प्रमाणता । केषाश्चिदपि जीवानां, दृष्टिगोचरता न हि ॥२०॥ यदि दृश्यशरीरी चेत्तदा तु चास्मदादिवत् । प्रत्यक्षः किं न सर्वेषां, दृश्यते च क्षमातले ॥२१॥ शरीराभावतश्चैव, शरीरी नैव मन्यते। ईशकर्तृत्ववादोऽपि, कदापि नैव युज्यते ॥२२॥ तृणाभ्राशनिपातादि, इन्द्रधनुष्कवस्तूनाम् । वनस्पत्यादिकानाच, उत्पादो दृष्टिगोचरः ॥२३॥ कार्यत्व हेतुता तत्र, ईश्वरे कर्तृता न हि ।
१४