________________
[२०८]
योगमद्दर्शनाऽनभिज्ञस्य, वचनं तादृशं मतम् । पृच्छामि प्रश्नकर्तारं, श्रूयतां सावधानतः ॥ ७॥ धर्मीश्वरं प्रतीतं वा, अप्रतीतं भवन्मते । मन्यते चाप्रसिद्ध चेतुस्तदा न युज्यते ॥८॥ अप्रतीतेश्वरो धर्मी, जगत्कर्तृत्व साध्यकम् । अशरीरत्व हेतुश्च, प्रयोगः सफलो न वै ॥६॥ अप्रतीतेऽशरीरत्वं, क्व स्थानं लभते वद । हेतुता नैव युज्येत, विचार्य मानसे सदा ॥१०॥ धर्मी यदि प्रतीतः स्याजगन्नाथस्य वै तदा। यत्प्रमाणात्प्रतोतश्च, स्वकृद्दहस्य तेन वै ॥११॥ कथं ज्ञानं न जायेत, जगत्कर्तृत्वरूपतः। अत ईशोऽपि मन्तव्यः, नित्यः स एक एव तु॥१२॥ नैक कर्तुंश्च स्वीकारे, कार्ये विमतिता भवेत्। अतोऽनेकेन मन्तव्याः, जगत्कल्याणमिच्छता॥१३॥ तेषु चाव्यापकत्वञ्च सर्वत्र रचनं कथम् । अतो व्यापकता मान्यो, जगत्कर्तृत्वकांक्षिभिः॥१४॥ सर्वज्ञः सोऽपि ज्ञातव्यः, सर्वकारणज्ञानतः । सर्वकार्यस्य निर्माणमन्यथा तस्य नो भवेत् ॥१५॥