________________
-प्रदीप
[२११] घटपटादि कार्याणि, कृतानि दृश्य देहिना। . पृथिव्यादीनि कार्याणि, अदेहिना कृतानि वै॥३३॥ इति विषमता ज्ञेया, युक्ति वैषम्ययोगतः।। तथाप्याकाशवत्तस्य, अदेहीशस्य सर्वथा ॥३४॥ जगन्निर्माणसामर्थ्य, कदापि नैव सम्भवेत् । कार्यसिद्धविना देहं, मन्तव्ये दोषदुष्टता।३॥ वियतेदं जगच्चैव, कृतमित्यपि मन्यताम् । युक्ति शून्यं यथा ताक्, तथात्र परिदृश्यते ॥३६॥ जगन्निर्माणकर्तुश्च, अदेहित्वे नस्वीकृतौ । अनवस्थात्व दोषोहि, जायते नात्र संशयः ॥३७॥ यो यः शरीरधारी स्यात्सावयवः सदृश्यते । यश्च सावयवो दृष्टः तत्कर्ता सशरीरवान् ।३८॥ सोऽपि सावयवः किं न तत्कर्ता देहवान्भवेत् । एवं रीत्या च मन्तव्ये अनवस्था भवेद् ध्रुवम् ॥३६॥ तृणाभ्रविद्यु दुल्कादीन्द्रधनुरादि वस्तूनाम् । वनस्पत्यादिकानाञ्च उत्पाद ईश्वरं विना ॥४०॥ अधुनाऽपि च दृश्येत, ततः प्रत्यक्ष बाधिते । धर्मिणि हेतु प्रायोगाद्वाधहेतुर्निगद्यते ॥४१॥