________________
[२९४]
योग
wwwwwwwww
इत्यादि देशनां श्रुत्वा, सक्मिण्यादिकसज्जनाः । सङ्कासमाधितां कृत्वा,निःसंशया गृहे गताः ॥२२॥ तद् दृष्टान्तेन ज्ञातव्यं श्रीकृष्णो नैव लम्पदः । गोपवधूदुकूलानां, चोरोऽपि नैव कर्हिचिद् ॥२२६॥ किन्तु कामिजनेनैव, तेन भवाभिनन्दिना । विषयवासनापूत्य,श्रीकृष्णोऽपि विनिन्दितः ॥२२॥ श्रीरामोऽपि महात्मासौ,परस्त्रीत्यागभावतः । अन्ते सर्व परित्यज्य,निर्ग्रन्थोऽजनि सर्वथा ॥२२८॥ निरतिचारचारित्रपालने तत्परोऽभवत् । प्रपाल्य शुद्धचारित्रमासनं सेवितं महद् ॥२२६॥ प्राणायामं च योगाङ्ग, धारणां प्रतिपद्य च । भरतादि त्रिकोव्यश्च, मुनिभिःसह संयुतः॥२३०॥ अनेकाभिग्रहं कुर्वन्, विरतिं प्रतिपालयन् । शमभावेन स्वात्मानम्भावयन् विमलाचले ॥२३१॥ समागतश्च तत्रापि, तृतीयं ध्यानमाश्रयन् । योगनिरोधनं कृत्वा, शैलेशी परिप्राप्तवान् ॥२३२॥ चतुर्थध्यानतां ध्यात्वा, सर्वैः सह शिवं गतः। अतःसोऽपि विशुद्धात्मा,माननीयश्च सर्वथा ॥२३॥