________________
AAAAAAAAAAM
-प्रदीप
[२०३] मुनेराहारकारित्वं, चारित्रपरिपुष्टये । न तु विषयपुष्ट्यर्थ, ज्ञातव्यं मानसे सदा ॥२१७॥ विनाहारं च देहं न, विना देहं न योगता। विना योगं चध्यानं न,विना ध्यानं न मुक्तिता ॥२१८ अतो देहस्य रक्षाय, आहारश्च मुनेर्मतः । विग्रहं धर्महेतुश्च, मुनीनां सर्वदा मतम् ॥२१॥ राजमार्गे यथा गर्ता, पतिता दैवयोगतः। येन केन प्रकारेण, पूर्यते सुप्रयत्नतः ॥२२०॥ यदि च नैव पूर्येत, तदा हानिः प्रजायते । जनानां गच्छतां मार्गे, अतःसमीकरीमता ॥२२१॥ मुनीनां च तथा ज्ञेया, क्षुधाग" महीयसी। क्षुधागण् विना भृत्वा,चारित्रं नैव पाल्यते ॥२२२॥ अतः सरसवैरस्यैः, प्रासुकैरन्नपानकैः। क्षुधागत प्रपूर्येत, चारित्रपरिपुष्टये ॥२२३॥ षट्कारण प्रभावेन, आहारश्च मुनेर्मतः । अन्यथाऽऽहारकर्तव्ये,प्रायश्चित्त विधापनम्॥२२४॥ १-चारित्रता