________________
[२०] मुनिना फारणं चैव कृतं दता च देशना । धर्मध्यानं समाचर्य, प्रत्यागमनमिच्छति ॥१६॥ यमुनाजलवृद्धिश्च, आगता बहुवेगतः। किं कर्तव्ये मुढ़ासैव, शोचति मानसे बहु॥१२॥ तदानीं स मुनिर्वक्ति, यातु नदी समीपके । गत्वा चैवं प्रवक्तव्यं,शृणोतु यमुने ! च भोः ॥१९॥ मुनिः सदोपवासी चेद् द्वे तटे च तदा तव । एकी भवतु शीघ्र वै,जातं तदा च तादृशम् ॥१६४॥ रुक्मिणीमानसे शङ्का, जाता तदा च श्रूयताम् । द्वात्रिंशत्सहस्राणां च,स्त्रीणां सदोपभोगके ॥१६॥ ब्रह्मचारी कथं स स्यादुपवासी मुनिः कथम् । आहारग्रहणेनैव, मुनिना पारणं कृतम् ॥१९६॥ सर्वजनसमक्षेऽपि, कथमेतादृशं भवेद् । इतिशङ्का समाक्रान्ता,रुक्मिणी सागृहे गता ॥१७॥ गृहकार्ये मनः किञ्चिद्, व्यापति न महासती । चिन्ताग्रस्त स्वचित्तेन, विचारं वितनोति सा ॥१६॥ सर्वज्ञो भगवांश्चैव, द्वाविंशतितमो जिनः । जिनेन्द्रो नेमिनाथश्च, तदानीं स समागतः॥१६॥