________________
-प्रदीप
[१९] जैनदर्शनविख्यातः, श्रूयतां तत्कथानकम् । भव्यजीवावबोधार्थ, कथ्यते शुद्धभावतः ॥१८२॥ श्रीमती रुक्मिणीदेवी, एकदा दैवयोगतः। महामुनिश्चतुर्ज्ञानी, यमुना निकटे स्थितः॥१८॥ साधुर्मासोपवासी सः, देहेऽपि ममता नहि । ज्ञानीध्यानी महात्यागी,स्वाध्यायध्यानतत्परः॥१४॥ तस्यागतिश्च विश्रुत्य, वन्दनेच्छा महीयसी। यमुनापयसा वृद्धिः, तदानीं सा समागता ॥१८॥ कया रीत्या च गन्तव्यं, इति चिन्ताकुला यदा । तदा श्रीकृष्णसामीप्ये,सा समागत्य पृच्छति॥१८६॥ वन्दनायै मुनीनां च, गमनेच्छा गरीयसी। नद्याः पुरसमुत्तारे, उपायः प्रतिपाद्यताम् ॥१८॥ कृष्णो वदति भो देवि ! तत्र गत्वैवमुच्यताम् । ब्रह्मचारी पतिर्मे चेदेकी भवतु द्वे तटे ॥१८॥ सा गत्वा च वदत्येवं, यमुने ! शृणु मद्वचः । मे पतिर्ब्रह्मचारीचेदेकी भवतु ते तटे ॥१८॥ तदानीं तत्र संजातमाश्चर्य हृदये महद् । गत्वा महामुनीन्नत्त्वा,आहारः प्रतिलाभितः॥१६०॥