________________
[१] कपिलोपि न सर्वज्ञः, अव्यक्त झान स्वीकृताद।१५६। बव्यक्त जडरूपे च, ज्ञानधर्मी मतो कथम् । ऐश्वर्यबुद्धिसद्भावः, जडस्प घटते न हि ॥१५७॥ एकान्तनित्यतत्त्वानां, तन्मते प्रतिपादनम् । संसारबन्धमोक्षाश्च, योगाङ्गानाश्च पालनम् ॥१५॥ तत्सर्व घटते नैव, कथं सन्यस्तधारणम् । आत्मनो व्यापकत्वे च, किमपि घटते न हि ॥१५६॥ विरुद्धवस्तु स्वीकारे, विरुद्धस्योपदेशतः । कपिले नैव देवत्वं, युज्यते युक्त्यभावतः ।१६०॥ बुद्धोऽपि नैव सर्वज्ञः, शून्यवादप्ररूपणाद् । पदार्थेषु च सर्वत्र क्षणिकत्व प्रज्ञापनाद् ॥१६॥ शुन्यवादस्य सिध्यर्थ, प्रमाणं यदि दीयते । तदा शन्यमशून्यं स्थान, शून्यं चेन्न प्रमाणकम् १६२ प्रमाणं यदि नो शून्यं, तर्हि वस्तु प्रसिध्यति । वस्तुत्वं चेत्प्रमाणस्थ, शून्यवादो न तिष्ठति ।१६३॥ क्षणिकेऽप्यन्वयि द्रव्यं, भवन्मते न विद्यते । कृतस्य च विनाशेन, अकृतस्यागमः सदा॥१६४॥