________________
-प्रदीप
[१९५] यदि कृतश्च सत्यं चंद्, तदा स पामरो जनः। सर्वज्ञो वीतरागो न, अल्पज्ञः सम्मतो महान् ।१४६।
ब्रह्मणि सर्वज्ञनिषेधवर्णनम् ब्रह्मापि न हि सर्वज्ञः, सावित्री लोलुपः सदा । वृद्धावस्थां च सम्प्राप्तः,नत्यजति कुवासनाम् ॥१५०॥
रामसर्वज्ञनिषेधवर्णनम् यदि रामोऽपि सर्वज्ञः, सीतया हरणे सति । कथं जनस्य पृच्छा सा,क्व गतासा प्रिया मम ।१५१॥ क्षणे क्षणे विलापादि, करोति मोह मूर्छया। हा!सीते! इति हा ! सीते ! वदति तादृशं कथम् १५२ यदि स्वयं च सर्वज्ञः, सीतागवेषणं कुतः। कथं युद्धादिकं कार्य, कथं जीवविनाशता ॥१५॥ वने कलङ्क सम्भ्रान्त्या, कथं त्यागं करोति सः। कथं कलङ्क सम्भ्रान्तिः, कथं शुद्धिविधापनम् ।१५४॥ लवकुशः समं युद्धं, करोति सर्वज्ञः कथम् । स्वपुत्रौ न कथं ज्ञाती, सार्वज्ञं तस्य कीदृशम् ।१५५ भवदागममानाच, रामे सर्वज्ञता न हि ।