________________
[१०]
योग-- अपौरुषेयरूपोहि, वेदोऽनेन नस्वीकृत। प्रमाणैरागमैश्चैव, सर्वज्ञसिद्धिरागता ॥ १०७॥ पौरुषेयागमेनैव, सर्वज्ञो न निषिध्यते । सर्वज्ञः पुरुषेणैव, स्वयं किं प्रतिषिध्यते ॥ १०८॥ उपमानप्रमाणं च, सर्वज्ञ बाधकं न वै। उपमानोपमेयानां, विषयो दृष्टि गोचरे ॥ १०६॥ तत्रोपमानता ज्ञेया, सर्वज्ञस्य भवन्मते । स्वीकारो कर्हि चिन्नैव, तदा चर्चा वै निष्फलो।११०॥ भवतेवं प्रमन्येत, भवसिद्धान्त वादतः । तदोपमानषाधा न, इत्येवमपि मन्यताम् ॥११॥ अतीन्द्रिय पदार्थानां, सार्वं विना निरूपणम् । केनापि च प्रकारेण, क्रियते न हि केनचित् ॥११२॥ किश्चापत्ति प्रामाण्यं, सर्वज्ञवाधकं न वै । प्रत्युत साधकं ज्ञेयं, इत्येवं हृदि मन्यताम् ॥११३॥ विना सर्वज्ञसद्भावे, वेदे नैव प्रमाणता। संपूर्णगुणवान्वक्ता, तत्र सर्वज्ञता भवेत् ॥११४॥ प्रामाण्यमन्यथा वाचि, कुत्रचिन्नैव जायते । वेदे प्रमाणता सिध्यै, सर्वज्ञः किल मन्यताम् ॥११॥