________________
[१८२]
योग
अतीतकाल सद्रामरावणादिनृणां तथा ॥३४॥ निषधनीलरुक्मीणां, महाहिमवतां तथा । देवकुर्वादिवप्राणां, चैरावतादि वस्तुनः ॥ ३५ ॥ महाविदेहवप्राणां, धातकीद्वीपसदृशाम् । समस्तानां पदार्थानां, साक्षादृष्टा च मन्यताम्।३६॥ एतेऽर्थाश्चाऽपि केषांचित्प्रत्यक्षास्युश्च सर्वदा । पर्वतस्थैर्यथा धूमैः कृशानुरनुमीयते ॥ ३७॥ अग्नेरनुमितेः कर्तुरनुमेयः शिखी तथा । तथापि पर्वतस्थायाः, व्यक्तः प्रत्यक्षमेव च ॥३८॥ व्यवहित समीपस्थाः, अर्थाः सूक्ष्मादिका अपि । त्रैकालिक पदार्था ये, अनुमेयाश्च मादृशाम् ॥३६॥ कस्यचिदपि व्यक्तश्च, प्रत्यक्षाश्च भवन्तु ते।। प्रत्यक्षीभूतका यस्य, सर्वज्ञः किंस नो भवेत् ॥४०॥ प्रागुक्तं यत्प्रमाणं न, सार्वसिद्धौ च विद्यते । वन्ध्यापुत्रसमं ज्ञेयं, प्रमाणस्य प्रसिद्धितः॥ ४१॥ पदार्थः सो न मन्तव्यः प्रत्यक्षः यस्य नो भवेत् । यदि चैवं प्रमन्येत, विरोधो दृश्यतां तदा ॥ ४२ ॥ १ क्षेत्राणां २ घातकी द्वपिकादीनाम्