________________
-प्रदीप
[११] सहजोत्प्लुति धर्मो न, किन्तु कर्मस्वभावजः॥२५॥ अतो नैव च मन्तव्यं, दृष्टान्तं तादृशं च वै । धूलिप्रक्षेपन्यायेन, वक्तव्यं तद् घृणास्पदम् ॥२६॥ प्रत्युत प्लुति कर्तव्ये, सामर्थ्य परिनश्यति । ज्ञाने न तारतम्यञ्च, तादृशं परिदृश्यते ॥२७॥ विना कस्योपदेशञ्च, शास्त्रावलोकनं विना । चन्द्रसूर्यग्रहादीनां, धर्माधर्मादि वस्तुनः ॥२८॥ नरकस्वर्गतत्त्वानां, कालाकाशादि वस्तुनः । कोऽपि प्रत्यक्षदृष्टास्ति, यद्विषयोपदेशकः ॥२६॥ विना चिह्न विना ज्ञानं, विना विषयोपदेशकम् । याऽविसंवादिता यत्र, तत्साक्षात्कृत्स संमतः॥३०॥ यथा च जिनपालादि, अन्योपदेशतां विना । चन्द्रसूर्यप्रज्ञतिभ्यः, ज्योतिशास्त्रादिकात्तथा॥३१॥ कृत्वा चन्द्रग्रहादीनां, स्वयं साक्षाच्च निर्णयम् । विनोपदेशसावं, दत्त परोपकारतः॥३२॥ अतीन्द्रिय पदार्थानां, सर्वेषां चैव सर्वथा । यः साक्षात्कारकारीस्यात्सःसर्वज्ञो विभाव्यताम् ३३ परमाण्वादि तत्त्वानां, चातीव सूक्ष्मवस्तुनः ।
१-अन्योपदेशं विना स्वयमुपदेश