SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ [ १८० ] योग द्रव्यस्य सहजो धर्मः, वैशिष्ट्यं स्वाश्रये नयेत् ॥ १६ ॥ अभ्यासस्य प्रभावेन, क्रमिक वर्द्धमानतः । सर्वोत्कृष्टं च प्राप्नुयात्तथैवाऽत्रावधार्य्यताम् ॥१७॥ यथा हेमत्वे क्षारादिप्रभृतीनां प्रयोगतः । शुद्धसुवर्णरूपत्वं जायते नात्र संशयः ॥ १८ ॥ गुणश्रेणि समारोहे, योगाभ्यासस्य योगतः । सर्वथा मोहनाशेन, ज्ञानावारादि नश्यति ॥ १६ ॥ सर्वथा नश्यति यत्र, शुक्लध्यानप्रभावतः । तत्र कैवल्यरूपोऽयं, ज्ञानभानुः प्रकाशते ॥ २०॥ तद्वान् ? सार्वश्च विज्ञेयः, विश्रान्तं तारतम्यकम् । ज्ञानं कुत्र भवेन्नैव, उत्कृष्टं तदपेक्षया ॥२१॥ जले ओष्ण्यश्च दृश्येत, स धर्मः सहजो नहि । समागतश्च हेतोर्वे, अग्न्यादि सहकारितः ॥ २२॥ अतो जलेsति तप्तेऽपि, जलमग्निर्न जायते । आगन्तुकेषु धर्मेषु तादृशो नियमो नहि ॥ २३॥ जलज्वालनकर्त्तव्ये, सर्वनाशो विधीयते । ज्ञानं तु सहजो धर्मस्तस्य विश्रान्तिर्दृश्यते ॥ २४॥ दृष्टान्तं प्रथमं दत्त, चोत्प्लुतिकरणस्य वै ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy