________________
-प्रदीप
[१७६] सर्वज्ञो माननीयश्च सर्वकाले च सज्जनः ॥७॥ यथा लिम्बुफलादाम्रफलं महन्निगद्यते। नालिकेरं च तस्माद्व कुष्माण्ड परिकथ्यते ॥८॥ ततः प्रतोलिमार्गाणां गृहं ततो पुरं मतम् । ततो भारतदेशादिस्तिर्यग्लोकस्ततो मतः ॥६॥ त्रिलोकी महती तस्मादिति रूपेण लोकने । परिमाणं महत्सर्व, विश्रम्यते च पुष्करे ॥१०॥ ज्ञया ज्ञानस्य तद्रीत्या, एकैकतारतम्यता। धर्मपालात्क्षमापाले, धनपाले ततोऽधिकम् ॥११॥ तच्छोभनमुनीन्द्रे वै, हेमचन्द्रे ततो महत् । हरिभद्रे तदाधिक्यं, ततश्च वज्रस्वामिनि ॥१२॥ भद्रबाहौ ततो ज्ञेयं, श्रुतकेवलि नामके। ततोऽवध्यादि ज्ञानिषु, मनःपर्यायज्ञानिनि॥१३॥ ततोऽधिकञ्च सम्पूर्णलोकालोकप्रकाशकम् । विश्रान्तं ज्ञानमुत्कृष्टं, तं सर्वज्ञञ्चमन्यताम् ॥१४॥ यथा तप्तोष्णनीरादौ, औष्ण्यं तारतम्यकम् । उत्कृष्टौष्णे सुजातेऽपि, अग्नित्वं न प्रपद्यते ॥१५॥ सहकारित्वसामग्र्या, आगन्तुकधर्म विना ।