________________
॥दशम प्रकाशः॥
सर्वज्ञ विषयक पूर्वपक्ष खण्डनम् सर्वज्ञं वीतरागं तं, विनाध्यानं न सिध्यति । विना ध्यानेन सर्वेषां, कर्मणां न क्षयो भवेत् ॥१॥ सर्वज्ञसिद्धि प्रामाण्यं, न स्यादिति चते मतिः । प्रमाणस्य तु सत्वेन, मिथ्या सा परिभाषिता ॥२॥ ज्ञानस्य तारतम्यं हि, विश्रान्तं कुत्रचिन्मतम् । तरतमशब्दवाच्यत्वात्, सर्वदा परिमाणवत् ॥३॥ तारतम्यश्च विश्रान्तं, परिमाणस्य व्योमनि ।। सर्वज्ञे तारतम्यश्च, विश्रान्तं ज्ञानभावतः ॥४॥ प्रतिभाज्ञानप्रज्ञानां, जीवेऽधिकाधिकत्वतः । एकैकापेक्षया चैव, जगति खलु दृश्यते ॥५॥ न्यूनाधिक्यश्च सर्वत्र, सर्वजीवेषु दृश्यते । तदा तस्याश्च वै पूर्णविश्रान्तिस्तु क्वचिन्मता॥६॥ यत्रोत्कृष्टत्व ज्ञानं वै सर्वपदार्थगोचरम् ।