________________
-प्रदीप
[१००]
निर्णयोऽपि पदार्थानां कर्तव्यो वेदवाक्यतः । वेदस्य, कर्ता च सर्वथा नहि ॥ ३४॥
अपौरुषेय
नित्यवेदवचस्स्वेव, अभ्यासदृढ़भावतः । अतीन्द्रिय पदार्थानां ज्ञानं संजायते तथा ॥३५॥ अपौरुषेय वेदेन, किं स्यात्पदार्थज्ञानता । पौरुषेयश्च वै वेदः मन्तव्यो बोधमिच्छता ॥ ३६ ॥ प्राचीन परिपाठ्यावै, गुर्वादीनां समागमात् । तत्सम्प्रदायहेतोच, पदार्थबोधजः खलु ॥ ३७ ॥ ॥३७॥ अतएव पुरा कार्य्यो, वेदपाठः प्रयत्नतः । ततो धर्मस्य जिज्ञासा, कर्तव्या धर्म्मसाधनी ॥३८॥ इतिश्री शास्त्रविशारद जैनाचार्य्य विश्ववन्द्य सूरिसम्राड् विजयधर्म्मसूरि शिष्येण न्यायतीर्थ न्यायविशारदोपाध्याय मंगल विजयेन विरचिते आईत
धर्म्मप्रदीपे सर्वज्ञसिद्धि पूर्वपक्ष वर्णन नामा
नवम प्रकाशः
समाप्तः ॥
१२