________________
[१७६ ]
योगप्रमाणेन न सार्वयं, सिध्यति केनचिद्यदि । तदा च तत्प्रणीतानां, आगमे न प्रमाणता ॥२५॥ आगमस्य प्रमाणन, ईश्वरो नैव साध्यते । ततः प्रमाणताऽभावे, सर्वज्ञः संसृतौ नहि ॥२६॥ . विना सर्वज्ञता कस्य, उपपत्तिर्न वस्तुनः । देवदत्तो यथा “पुष्टः, भुनक्ति दिवसे नहि ॥२७॥ भोजनश्च विना पुष्टिं,कस्याऽपि जायते नहि । प्रत्यक्षेण च पुष्टः स, दृश्यते सर्वजन्तुभिः ॥२८॥ अनुत्पन्नं विना येन, तत्तेनैव प्रकल्पयेत् । कल्प्यते पुष्टि योगेन, प्रकृतेर्रात्रिभोजनम् ॥२६॥ क्वचिन्नानुपपत्तित्वं तथा सर्वज्ञतां विना। अतः कल्प्येत सर्वज्ञः, किमर्थवद सत्यताम् ॥३०॥ प्रमाणं पञ्चकं यत्र, वस्तुरूपेण जायते । वस्तुसत्ता विबोधार्थ, तत्राभाव प्रमाणता ॥३१॥ प्रत्यक्षादि प्रमाणैश्च, सिद्धिर्यस्य भवेन्नहि । विद्यते नैव सर्वज्ञः, त्रैलोक्ये शशशृङ्गवत् ॥३२॥ अतीन्द्रियपदार्थानां साक्षाद् दृष्टा न विद्यते। नित्यवेदवचोभिश्च, यः पश्यति स पश्यति ॥३३॥