________________
-प्रदीप
[१७५] मनुष्यत्वे न सार्वज्ञमस्तीति मे मतिः सदा। परन्तु ब्रह्मविष्णुत्वे, देवे कथं न विद्यते ॥ १६ ॥ अथापिदिव्य देहत्वाद्ब्रह्म विष्णुमहेश्वराः । कामं भवंतु सर्वज्ञाः, सार्वश्यं तु नरस्य किम् ॥१७॥ भक्तानुग्रहणे चैव, ये शूराः शत्रु-निग्रहे । कामिनी कामनाशक्ताः, ब्रह्मा विष्णु-महेश्वराः॥१॥ कामस्नेहैः क्षणैः रागैः, युक्तेषु द्वेषधारिषु । यदि तेषाश्च सार्वयं, अपराधं किमन्यकैः ॥१६॥ किञ्चेश्वरस्तु नास्त्येव, प्रमाणानामभावतः । तत्सर्वं प्रतिपाद्यत, सर्वेषां ज्ञानलाभतः ॥२०॥ वस्त्विन्द्रिय सुसंबद्धं, प्रत्यक्षेणैव गृह्यते । अक्षिसंवन्धतानास्ति,प्रत्यक्षतस्य नो भवेत् ॥२१॥ प्रत्यक्षंतुमतं लिङ्ग अनुमाने च सर्वतः । व्याप्ति स्मरणतो वह्न, धूमस्य दर्शने यथा ॥२२॥ लिङ्गस्थादर्शनाभावे, ईश्वरो नानुमीयते। अनुमानप्रमाणस्य, अवकाशो न विद्यते ॥२३॥ उपमानप्रमाणन्तु, सादृश्यज्ञानयोगतः । सादृश्य ज्ञानताभावे, प्रकृतिस्तस्यनो भवेत् ॥२४॥