________________
[१६४]
योगव्रतस्थस्वरूपनिरूपणं अनाचारस्य हातारः, शुद्धाचारस्य पालकाः । व्रतस्थास्ते च बोधव्या, इतरे नाम धारिणः॥२४॥
ज्ञानवृद्धस्वरूपनिरूपणं हेयोपादेयवस्तूनां, निश्चयो येन जायते । सम्यग्ज्ञानश्च तज्ज्ञेयं, पर मिथ्यामतं सदा॥२४६॥ ताभ्यां वृद्धाः व्रते ज्ञाने, तद् वृद्धानाञ्च पूजकाः । व्रतस्थज्ञानवृद्धानां पूजकाः कथ्यंते जनैः ॥२४॥ ज्ञानवृद्धस्य सेवायां ज्ञायते वस्तुरूपकम् । ब्रतवृद्धस्य भत्त्या वै,जायते च व्रतोदयम् ॥२४॥ अनयोर्भावतस्सेवा, कर्तव्ये सफलं जनुः । अत्र परत्र जायेत धर्मयोग्यस्ततो भवेत् ॥२४॥
पोष्यपोषकव्यवहारस्वरूपं मातृपितृकलत्राणां, भातृपुत्रकयोस्तथा। पोष्यपोषकभावत्वं, क्रियते व्यवहारतः ॥२५०॥ अप्राप्यवस्तुदानेन, प्राप्यानाञ्च सुरक्षणात् । पोषकत्वञ्च पोष्याणां,धर्मयोग्यत्वकांक्षिभिः॥२५१॥