________________
-प्रदीप
[१६३) शरीरबलहीनानां, बलवता सह योधने । सर्वसम्पत्तिहानिः स्याल्लाभश्च सर्वथा नहि ॥२३६॥ बलहीनोऽपि व्यायाम, कर्तुं समुद्यमीयते । अतिश्रम प्रभावेन, बलंनश्यति पूर्वजम् ॥२३७॥ बलवतश्च व्यायामे, पुष्टिर्जायेत विग्रहे । अतोऽनेक क्रियाणाश्च, करणे कुशलो भवेत्॥२३॥ सर्व बलवतां पथ्यं, चावलस्य न किञ्चन । समरेषु च सर्वत्र, बलबुध्युपयोगिता ॥२३६॥ कर्मणा सह संग्रामे, बलं प्रधानकारणम् । बलभावेन संसारी, जायते परमार्थतः ॥ २४०॥ यदा शमदमध्यानैश्चात्मनि स्याबलिष्ठता। दुर्बलप्राणिनां कर्मसंग्रामे स्थानकं नहि ॥२४१॥ यदा मोहस्य प्राबल्यात्, कर्मणां च बलिष्ठता। तदातैस्सह संग्रामे, आत्मनो विजयोनहि ॥२४२॥ तथा संसारि संग्रामे, एकत्र सैनिकं बलम् । अन्यत्र स्वल्पकं सैन्यं, तबलं तत्र हार्यते॥२४३॥ अतो बलाबलं ज्ञात्वा, कर्तव्यं सर्वथामतम् । तादृश कार्यकर्तारः, धर्मयोग्या उदाहृताः॥२४४॥