________________
[१६२]
योग
साधुवन्दनका-य, गच्छन्ति साधुमार्गिणः । चातुर्मासेऽपिगन्तव्ये,दोषान्पश्यन्तिनोजडाः॥२२८॥ वन्दनार्थ सहस्त्रश, आगतानां तदैव तैः । भोजमार्थ महाचुल्लीः, कृत्वा पापं विधीयते ॥२२६॥ असंख्यत्रसजीवानां, निधर्मने विनाशता। षण्णां जीवनिकायानां,प्रषलास्याद्विराधना ॥२३०॥ निषेधयन्ति पूजां ते, न वन्दनामिति चिन्त्यताम् । स्वपूजाकांक्षिणस्ते च, ईशपूजा निषेधकाः ॥२३॥ स्वपूजार्थं महत्पापकारकानाञ्च कागतिः। भविष्यतीति तन्मन्ये,शुभातुनहि कहिश्चित् ॥२३२॥ अतो दया निधीनांव, वन्दना किमु युज्यते । चातुर्मासे तु नैषेध, आगमने वितन्यताम् ॥२३३॥
बलाबलविचरनिरूपणं शारीरं मानसञ्चैव, स्वपरेषां बलाबलम् । धनसम्पत्तिवाणिज्यमनुष्यसाधनादिकम् ॥२३४॥ संपकुसंपभावादि दर्शनीयश्च सर्वदा। पश्चात्तुकार्य कर्तव्ये, मन्यते धर्मयोग्यता ॥२३५॥