________________
- प्रदीप
[ १६१ ]
सर्वथा हृदये येषां नास्ति गुणविपाकता । असत्संगतियोगे च, पतन्ति नात्र संशयः ॥ २२०॥ गंगाजलं महात्स्वादु, यदा सिंधौ प्रगच्छति । तदा तज्जलयोगेन, गंगात्वं त्यज्यते सदा ॥ २२१॥ अपूर्णोत्साहजीवस्य, विचारो नश्वरः सदा । धर्म्म भावोऽपि हारिद्ररागसदृक् सुमन्यताम् ॥२२२॥ मंजिष्ठारागसादृश्यं, पूर्णानां धर्म्मवासना । पूर्णानां देशवैदेशे, दोषः कुत्र न विद्यते ॥ २२३॥ अतो निषिद्धदेशेषु, अपूर्णे गम्यते नहि । गमने तेषु आर्यत्वं, कदापि नैव तिष्ठति ॥२२४॥ निषिद्धकालगमनत्यागस्वरूपं
निषिद्धकालगन्तव्यं, कर्तव्यं न कदाचन ।
रात्रिकाले च साधूनां यथा च ब्रह्मचारिणाम् ॥२२५ तीर्थयात्रा चतुर्मासे, निषिद्धा दोषभावतः । तत्र यात्रार्थप्रस्थाने, दोषा हिंसादयस्तथा ॥ २२६॥ उपद्रवाश्च चौराणां, जायन्ते बहुलास्ततः । विराधनाषा कायानां संभवेत् प्रचुरातदा ॥ २२७॥ १ - समुद्रे
११