________________
[१६०
योगनिषिद्धगमनत्यागस्वरुपं निषिद्धदेशगंतव्ये, लोभश्च धनप्रापणम् । प्रचुरगुण-नाशःस्थात्,स्थित्वेकान्ते विचार्य्यताम्।।२१२ हृन्निष्ठुर धर्महानि, निर्दयता प्रवर्द्धनम् । असभ्य व्यवहाराणां, दुगुणानां प्रवेशनम् ॥२१३॥ अनादिकालभावेन, जीवो विषयतां व्रजेत् । आर्यदेशं परित्यज्य, अनार्य गमने तथा ॥२१४॥ धार्मिक सहवासो न, अर्वाग् दर्शिसमागमात् । मांसाशि सहवासेन, के के दोषा भवन्ति नो ॥२१॥ यादृशः सहवासस्तादृशा दोषा गुणा अपि । काठिन्यं गुणप्रावेशे, दोषाः शीघ्र विशन्तिवै॥२१॥ विदेशगमने काले, उत्साहो मानसे बहु । ददाति याश्च शिक्षांयस्तां सर्वा सोऽपि मन्यते॥२१७॥ विदेशीय जलं पीत्वा, विदेशिसहवासतः । पश्चात्सर्वा चतांशिक्षा, हृदोनिष्कासयेत्खलु॥२१८ गुणविपाकता येषां, जाता संपर्कतः हृदि । ते स्वदेशविदेशेषु, सर्वत्र समदर्शिनः ॥२१॥