________________
-प्रदीप
[१५६ ] वीतराग समीपे च, पूर्व नैवैद्यढौकनम् । पश्चादागत साधूनां, कार्यश्च प्रतिलाभनम् ॥२०३॥ ततः साधर्मिकानाञ्च, कार्यते चैव भोजनम् । दीनेभ्यश्च ततोदत्वा, भुज्यते श्रावकैः स्वयम्॥२०४॥ आग्रह परिहारेण, सरलाशयसंयुताः । सद्युक्तीनां ग्रहीतारः, धर्म योग्याश्चतेमताः॥२०५॥ आग्रहिणो मतियंत्र, तत्रयुक्तिं नयन्ति ते । यत्र चानाग्रहायुक्तिः, मतिं तत्र नयन्ति ते॥२०६॥ अभिनिवेश प्राधान्यमाग्रहि हृदये सदा । अनाग्रहि मनुष्याणां, प्रमाणमागमं मतम् ॥२०७॥ सौजन्योदायंदाक्षिण्य, स्थिरताप्रियभाषकाः। परोपकारकारित्वं, ग्रहणाऱ्या गुणा मताः ॥२०॥ येषां तेष्वनुरागश्च, तत्रैव पक्षपातता। ते मता धर्मयोग्याश्च, ये गुणपक्षपातिनः ॥२०६॥ निर्गुणश्च गुणद्वषी, भवति गुणरागिषु । आगच्छन्ति गुणानैव, गुणद्वोषिणि सर्वथा ॥२१॥ आगच्छन्ति सदा ते च, गुणरागिषु सदगुणाः । भवन्ति गुणिनो तेऽपि, निपाने दद्रका यथा ॥२११॥