________________
-प्रदीप
[ १६५ ]
दीर्घदर्शित्वनिरूपणं अर्थानर्थविवेकित्वं, पूर्वापर विचारकृत् । विज्ञेयं दीर्घदर्शित्वं, सर्वत्र कुशलो भवेत् ॥ २५२॥ सहसा कार्य्यकर्त्तव्ये, आपत्तिः प्राप्यते सदा । विमृश्य कार्यकतृणां संपच्च वृणुते सदा ॥ २५३॥ सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं, गुण लुब्धाः स्वयमेव सम्पदः । विचारकारिणी शक्तिः, भूतभविष्यकालिकी । दीर्घदर्शिमनुष्येषु विद्यते सुखहेतुका ॥२५५॥ गुणदोषस्वरूपौ तौ पदार्थों परिचिन्तयेत् । पश्चात्कार्य कर्तव्ये, दोषापत्तिर्न किञ्चन ॥ २५६ ॥ दीर्घदर्शिगुणप्राप्तिः, विना पुण्यं न जायते । सुप्राप्तः स गुणो येन, मन्तव्यो धर्म्मयोग्यकः ॥ २५७॥ अकृत्यत्यागनिरूपणं
कृत्याकृत्यादि तत्त्वानां, पेयापेयादि वस्तुनः । जीवाजीवादि भावानां, गम्यागम्यादि कस्य वै ॥२५८॥ स्वकीय परकीयानां, भक्ष्याभक्ष्यादि वस्तुनः । स्वरूपं येन बोध्येत, विशेषज्ञत्वमुच्यते ॥ २५६॥