________________
-प्रदीप
[१५३]
vriwww
युत्तयनुभववैरुध्यं, अनर्थस्य च कारणम् । ताइक्कार्यान्निवृतिस्तु, अपोहः"परिकीर्तितः॥१५६॥ सामान्य ज्ञानमूहा सा, अपोहस्तद् विशेषकम् । तर्कविशेषद्वारा च, समारोपविवर्जितः ॥१५७॥ वस्तुधर्मस्य विज्ञानमर्थज्ञानमुदाहृतम् । अमुकवस्तुनो रूपमिदमेवाऽन्यथा नहि ॥१५८।। रूपस्य निश्चयं तादृक्, तत्वज्ञानं निगद्यते । प्रत्यहं धर्मसंश्रावात्, समागच्छति ते गुणाः॥१५॥ बुद्धिगुणैश्च पूर्वोक्तः, निर्मला यस्य शेमुषी। अकल्याणस्य भागी स, भवेन्नैव कदाचन ॥१६॥ क्लान्तमपोन्झतिखेदं, तप्तं निर्वाति बुध्यतेमूढ़म्। स्थिरतामेतिव्याकुलमुपयुक्तसुभाषितं चेतः॥१६१॥ किं हारैः किमुकंकणैः किमसमैः कर्णावतंसैरलम् । केयूरैर्मणिकुण्डलै रलमलं साडम्बरैरम्वरैः। पुसामेकमखण्डितं पुनरिदं मन्यामहे मण्डनम् । यनिष्पीडितपार्वणामृतकरस्यन्दोपमासुक्तयः॥१६२॥
१-श्रवणाद्