________________
-प्रदीप
[१४६] रात्रि भोजनता जैने, निन्द्यं कर्म निगद्यते । प्रवृतिगर्हिते कार्ये, नैव कार्यो कदाचन ॥१२३॥ तिललवणवाणिज्यं, ब्राह्मणेषु निगद्यते। असत्यवादिता जैने, निन्दनीयामता तथा ॥१२४॥
वित्तानुसारिव्ययनिरूपणं ऊनाधिको न वै कुर्यात्, लाभानुसारि सव्द्ययः। न्यूने कृपणतादोषः,अधिकेषु स्याद् दरिद्रता॥१२॥ समयोचितरीत्याच कुटम्बपरिपोषणम् । धाम्मिककार्यकर्त्तव्ये, विवाहादौ तथैव च ॥१२६॥ अतिथिभक्तिकर्तव्ये, सा धाम्मिके तथैव च।। एवंरीत्या च सर्वत्र, योग्यव्ययो विधीयते ॥१२७॥ पादमायान्निधिंकुर्यात्, पादं वित्ताय योजयेत् । धर्मोपभोगयो पादं, पादं भर्तव्य-पोषणे ॥१२८॥
आयादध नियुक्षीत, धर्म समधिकं ततः। कुर्याच्छेषेण शेषञ्च, यत्नतः तुच्छमैहिकम् ॥१२६॥ धर्ममार्गेऽधिकं तस्माद्ययं कुर्वन्तु सज्जनाः।। पुण्याल्लक्ष्मीःप्रजायेत, लक्ष्म्या:दानफलं मतम्॥१३०॥ परोपकारकार्येषु सद्व्ययः क्रियते सदा।