________________
योग
[ १४८] प्रत्युपकारतां तस्य, वालयन्ति सुपुत्रकाः। ते पुत्रा उत्तमाज्ञेया,श्लाध्या:जगतिते मता॥११॥ पितरोऽपि सुतान् सर्वान्, धर्मे प्रेरयन्ति वै। अधउत्पाति यस्त्वेवं, सः पितेति निगद्यते॥११६॥ संतानोत्पत्ति कर्तव्ये, पितृत्वं नैव कथ्यते । तत्र विषयप्राधान्यं, अस्ति वेदोदये तथा ॥११७॥ धर्मस्य पुष्ठिदा माता, अधर्माद्रक्षणापिता । कुर्वतः स्वस्वकार्य वै, तावेव पितरौ तदा ॥११८॥ पूर्वोक्तगुणयुक्तेषु, मातृपितृषु सर्वदा। भक्तिभावश्च कर्तव्यः, पुत्रश्च सुखमिच्छुभिः॥११॥
गृहत्यागनिरूपणं स्वचक्र परचक्रादिः, दुर्भिक्षप्लेगमारयः । स्वीय निर्वाहताऽभावः, लोकविरोधता तथा॥१२०॥ इत्युपद्रवयुक्तस्य, स्थानस्य सेवनं दुखम् । अतस्तत्परिहर्तव्यं, स्थानं स्थान सुखेच्छ्या ॥१२१॥
निन्द्यकर्मत्यागनिरूपणं निन्द्य कर्मविधा प्रोक्तं, देशजातिकुलैरपि । गौर्जरैर्मद्यमांसादि, ब्राह्मणे मद्यविक्रयः ॥१२२॥