SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [१४७] हेलयन्ति च सर्वत्र, तेषां भक्तिश्च दूरतः। वुध्येक कारणं स्वस्मिन्, मन्यन्ते मूढ़बुद्धयः॥१०६॥ तेऽपिनरा न वैश्लाध्याः, मन्तव्याः सज्जनहृदि । उत्तमाभाविनी शिक्षा, ग्राह्या चज्ञानिभिः सह॥१०७१, सेवां भक्त्या च कुर्वन्ति, मातृपित्रोश्च सर्वदा । सर्वसंसारिकार्येषु, तदाज्ञां पालयन्तिये ॥१०॥ पूर्व कारयतां पित्रोः, पश्चात्कुर्वन्ति भोजनम् । तेषां सुखेन सौभाग्यं, सदा मनसि मन्यते ॥१०॥ त्रैकालिकनमस्कारं, कुर्वन्ति भक्ति भावतः । न तु मनसि संकोचः, क्रियत उत्तमैर्जनैः ॥११०॥ विश्रान्तिर्गृहकार्येभ्यः, दातव्या सर्वथा सुतैः। धार्मिकसर्वकार्येषु, कर्तव्या प्रेरणा मता ॥१११॥ येन केन प्रकारेण, श्रद्धामूलकसद, तम्। तदामे सफलं जन्म, पितृभिर्यदि प्राप्यते ॥११२॥ इति भावनया तेषां, समायपौषधादिकम् । गत्वा गुरु समीपे तु, कारयितव्यता मता ॥११३॥ येन योगेन बुध्यन्ते, तस्य योगस्य वर्णनम् । चतुर्णामनुयोगानां, कर्तव्यं गुरुभिः सदा ॥११४॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy