________________
-प्रदीप
[१४५] स्तन्यपानकपर्यन्तं, पशूनां मातृता मता। पश्चान्मातुः पतिस्सस्यात्तादृशी पशुरूपता ॥८६॥ दाराणां लाभपर्यन्तं, मातृभक्तिषु तत्पराः। ते नराः अधमाः ज्ञयाः,सत्प्रवृत्तिर्बहिर्मुखाः॥३०॥ दारेषु चागतेष्वेव, मातृभक्तिः प्रलीयते । सावकाशे वदत्येवं, शृणोतु पति देवता ॥११॥ श्वश्रुननान्ट जेष्ठिन्यः, गालिं ददति प्रत्यहम् । निरन्तरमतिक्लेशं कुर्वन्ति सोद्यमाश्चताः ॥१२॥ किश्चिदपि न शृण्वन्ति, भवन्तस्तु वचो मम । किं मयावद कर्तव्यं, गच्छामि स्थानके क्वच ॥६॥ एवमुक्त्वा प्रकुर्वन्ति, उरः कुटनता क्रियाम् । भजन्ति नाटकं ताइक्, स्वचरितानुसारतः ॥१४॥ उद्विग्न स्वान्तभावेन, जाता व्याकुलता हृदि । किं कर्तव्ये च वै मूढः, पत्नी गुरुं करोति सः ॥६॥ सा वदति मया त्यक्तं, यथा मातृगृहं सदा । तथा त्वया सदा त्याज्यं, मातृगृहं नु सर्वथा॥६६॥ वस्त्राणां धावनं चैव, अशुचिक्षालनादिकम् । रोगाणां परिचर्या च जनन्या प्रेमतः कृता ॥१७॥