________________
योग
ann
[१४२) सहयोगः प्रदातव्यः, सर्वकार्येषु सर्वदा ॥३४॥ सुखित्वं करणेनैव, वासो कार्यो न चान्यथा । पालनीयस्सदाचारः, देशादौ वसता सता ॥६॥
अवर्णवादत्यागस्वरुपनिरूपणं निन्दा केनाऽपि नो कार्या, यस्य कस्यापि जन्तुनः॥ निन्दकाः संसृतौ जाताः,निन्दायाः कारकाजनाः ६६ आत्मश्लाधा न कर्तव्या, नीचगोत्रप्रसूतिका। कोटिशो भवपर्यन्तं, दुर्मोचा संमृतौ मता ॥३७॥ परम्पराभवो यश्च, अपमानविधायकः। निन्दामूलक औपायः, कर्तव्यो न कदाचन ॥१८॥ राज्ञां तदाश्रितानाच, निन्दा त्याज्या विशेषतः। प्राणानां वा धनानां वा, नाशः प्रत्यक्षतो मतः ॥६६॥ स्वप्राणधनरक्षार्थ, राजनिन्दा प्रहीयताम् । गृहस्थैश्च सदा त्याज्योऽवर्णवादश्च सर्वदा ॥७०॥
___ स्थान कर्त्तव्य निरूपणं स्वादुशीतजलं यत्र, यत्र दूर्वादि वस्तुनः । समुत्पत्तिश्च जायेत, गृहं कार्य तु तत्र वै ॥७॥