________________
-प्रदीप
[ १४१ ]
पापसाधक वस्तूनां त्यागः काय्र्यो विपश्चिता । सर्वदा सुखशीलेन, भाव्यञ्च पाप भीरुणा ॥ ५६ ॥ सात्विकश्च सदाऽऽचारः, प्रसिद्धदेशवासिभिः । परिवेशाशनादीनां वस्त्रपात्रादिवस्तुनः ॥५७॥ वैवाहादिककार्याणां संस्थितान्त सुजन्मनाम् । रक्षणीयश्च सर्वत्र, न कर्तव्या विरुद्धत ॥ ५८॥ प्रसिद्धदेशाचारस्वरूपनिरूपणं
यस्मिन्देशे निवासः, स्थात्तद्द शवासिभिः सह । सुख दुःखादि कार्येषु, कर्तव्यतत्परो भव ॥५६॥ अन्यथाचारकर्तव्ये, मनुष्या मरुदेशिकाः । वराडप्रान्त भागस्था, सर्वथा तत्पृथग् भवाः ॥६०॥ वराड प्रान्तिकैर्ज्ञातं, लुण्टाका वञ्चका इमे । आगता धनलुण्टार्थं, नत्वस्मद्दुःख दुःखिनः॥६९॥ इति विचार्य्य सर्वैश्च मीलित्वा धनलुष्टितम् । व्यवसायस्य यत्पत्रं, प्रज्वाल्य भस्मसा कृतम् ॥६२॥ तथैव वंगदेशादौ, ढाकाप्रान्तस्थितैर्जनैः । बहिष्कारः कृतस्सर्वैः मरुदेशप्रवासिनाम् ॥६३॥ सात्विके च सदाचारे, तद्देशे च निवासिनाम् ।