________________
[१३८]
योगयुगलिक मनुष्याणां, सहजन्म मृती तथा । यावत्कालं न सम्बद्धः, तावद्भ्राता भगिन्यपि॥३१॥ यदातयोः रतिक्रीडा, परस्परं प्रजायते । तदा तयोश्च दाम्पत्य, लक्षणाचैव योग्यता॥३२॥ जायते नैव वैवाहः, अग्निदेवादिसाक्षिकः । वैवाहिकञ्च कार्य नो, तत्काले सर्वथा मतम् ॥३३॥ या व्यवहारमर्यादा, आधभगवता कृता। पक्वान्नभोजनादीनां, कुम्भादिशिल्प वस्तुनः॥३४॥ द्वासप्ततिः कलानाञ्च, राज्यपालनवस्तुनः । अविष्कारश्च सर्वेषामाद्यभगवता कृताः ॥३५॥ तदा युगलिकानाञ्च, अभूदाचारमन्दता। शनै शनैश्च मन्दत्वे, व्युच्छिन्नः सर्वदा ततः॥३६॥ व्यवहारस्य प्राधान्यमार्यावर्ते च संमतम् । वैवाहादिक कार्याणां, सर्वेषाञ्च तदादितः ॥३७॥ सहजन्ममृती चैव, धर्मों युगलिको नहि । अधुनाकेषु कुत्रापि, विवाहः कथ्यते कथम् ॥३८॥ यदा च सहजन्मादि, व्यवहारस्तदा नहि । व्यवहारो यदा जातः, सहजन्मादिनों तदा ॥३६॥