________________
-प्रदीप
[ १३६ ]
विवाह एक गोत्रीयः, भगिनीभ्रातृसदृशः । अतस्तत्र न कर्तव्यः, संसार सुखमिच्छता ॥४०॥ सदाचार प्रसिध्यर्थ, विवाहः संसृतौ मतः । अन्यथाऽसत्प्रचारेण, विनश्यन्ति परस्परम् ॥४१॥ एक गोत्रजवैवाहः, आर्य्याचारो न वै भवेत् । लोकविरुद्धदोषाद्याः भवन्ति महतां सदा ॥ ४२ ॥ व्यवहारश्च धर्मेषु, आर्य्याणां मुख्यतो मतः । अधर्मोऽन्यायप्राधान्यः, म्लेच्छानां सः प्रदृश्यते॥४३॥ अतो विवाह कार्येषु, आर्य्यम्लेच्छेषु भिन्नता । एकगोत्रजवैवाहः, अधर्म्म मूलको मतः ॥ ४४ ॥ सुयोग्य स्त्री परिप्राप्ते, सुयोग्य सुत लाभता । सुयोग्यपुत्रलाभे च धर्मध्याने सहायता ॥ ४५॥ परिमितं धनञ्चैव दीयते व्यवहारतः । स्वातन्त्र्यञ्च गृहे देयं, न ह्ययोग्य स्वतन्त्रता ॥ ४६ ॥ परस्त्री भगिनी तुल्या, मन्तव्या सर्वदा जनैः । एतच्चतुष्टयं कार्य्यं, स्त्री सदाचारपोषकम् ॥४७॥ एकाकिन्या न गन्तव्यं, निशि नैवातिजागृतिः । दूरतो वारिनानेयं, वासो मातृगृहे सदा ॥४८॥