________________
- प्रदीप
[ १३७]
"
वेषभाषा धनानाञ्च मन्तव्याऽपि समानता । सर्वेषु विपरीतेषु, कर्हि चिन्न समानता ॥ २३ ॥ वरस्त्वभक्ष्यभोगीन, अभक्ष्य भोगिनी वधुः । तयोर्द्वयोश्च संयोगः, संक्लेश वर्द्धकोमतः ॥२४॥ वरोऽपि मद्यमांसांशी, सदाचारवती वधुः । उत्तमकुलजा पत्नी, अधमकुलजो वरः ||२५|| तयोः परस्परं योगे सुखशान्ति कुतो भवेत् । तथैव भिन्न भाषायां वैषम्यं विभवे तथा ॥ २६॥ अतः कुलादिके साम्ये, विवाहे रतिजं सुखम् । अन्यथा नित्य संक्लेशः, प्रजायते परस्परम् ||२७|| पूर्वेक पुरुषों वंशः, तद्गोत्रमिति कथ्यते । वध्वा वरस्य गोत्रस्य, भिन्नता चाऽत्र संमता ||२८|| एकगोत्रे च वैवाहे, कर्तव्ये दोषता भवेत् । भगिनीभातृ संयोगसदृशी पापता मता ॥२७॥ युग्मकाले प्रदृश्येत, व्यवहारश्च तादृशः । अधुना किं न क्रयेत, उच्यतां दोषदर्शिना ॥३०॥ १ पूर्वेकपुरुषपरंपरातः समागतो वंशो गोत्रमिति कथ्यते यथा गर्गादागतं गोत्रं गार्ग्यमुच्यते तथैवात्रापि ।