________________
-प्रदीप
[ १२७]
जल बुबु स्वरूपस्य, देहविनाशरूपतः । अवस्थानादि गायेंन, प्रयत्नकरणं तथा ॥१४०॥ इति जीवितशंसायाः, करणं व्रतधारिणाम् । संलेखनातिचारकः॥ १४१ ॥
मरणं मामकं कदा |
जीविताशंस इत्याख्यः, स्वकीयानादरं दृष्ट्वा, चिन्तनपरिणामस्स्याद्, मरणाशंसनं मतम् ॥१४२॥ रोगग्रस्त शरीरस्य, मृतौ दत्तञ्च मानसम् । प्राप्तजीवन कष्टस्य, मुहुर्मरण चिन्तनम् ॥१४३॥ मरणाशंस इत्याख्यः, ह्यति चारो द्वितीयकः । संलेखना तिचारेषु, मन्तव्यः सुखमिच्छता ॥ १४४ ॥ जीविते मरणे चैव, सहचारि सुमित्रके । योग्यो ह्यपूर्वस्नेहश्च तं हातु ं नैव वाञ्छति ॥१४५॥ इत्यनुरागकारित्वे, मित्रानुरागता मता । संलेखनासु बोधव्यस्तृतीयो ह्यतिचारकः ॥ १४६ ॥ स्मृतिविशेषरूपेण, अनुभूत स्त्रिया सह । मुहुः सुखस्य संस्मारे, सुखानुबन्धरूपकः ॥ १४७॥ कष्टानुष्ठानशीलैश्च तपोभिर्लाभसंचितः । तेषां विक्रय कारित्वे, निदानं तन्निगद्यते ॥ १४८ ॥