________________
Nrwww
[१२६]
योगसचितेन पिधानाख्यः, अतिचारः प्रकथ्यते । अतिथिसंविभागस्य, मन्तव्यश्च द्वितीयकः ॥१३॥ पश्यन्तं संयतं वै तु, भिक्षाकाल उपस्थिते । न स्वान्ते देयबुद्धिश्च, प्रकटाऽन्नादि वस्तुषु ॥१३२।। किश्चिच्छलं च निष्कास्य, परकीयं प्रकथ्यते । विनाऽऽज्ञां किमुयच्छामि,तुभ्यं महामुनेवद!!१३३॥ एताहक् कार्यकर्तव्ये, अतिचारः प्रजायते । अतिथिसंविभागस्य, कर्तव्यं नहि तादृशम्॥१३॥ कषाययुक्तचित्तेन, द्वेषबुध्या प्रयच्छताम् । मात्सर्याख्योऽति चारश्च,चतुर्थःसंविभागके।१३।। योग्यो गोचरकालोऽपि, तस्यातिक्रमणं कृतम् । सावो हृदये नैव, अनादानमनीषया ॥१३६॥ कालातिक्रम इत्याख्यः, अतिचारः प्रकीर्तितः । संविभागस्य ज्ञातव्यः, संविभागं प्रकुर्वता ॥१३७॥ जीवितमरणाशंसा, मित्रसुखानुरागके । निदानकरणं चैव, संलेखनातिचारता ॥१३॥ वस्त्रादि बहुलाभेन, कुटुम्धानां सुखेन वै। लोकरलाधाश्रुतेनैव, जीवनमिदमेव च ॥१३६॥