________________
योग
[१२]
।
क्षणिकशून्यता यत्र, सर्वथा परिदृश्यते । तत्रापि नैव योगत्वं, यमादीनामभावतः ॥८५॥ कथंचिदात्मनो नित्यानित्यत्वं यैश्च स्वीकृतम् । सदसद्रूपता यत्र तत्रैव शुद्धयोगता ॥ ८६ ॥ द्रव्यपर्यायवत्त्वं च तत्त्वं यत्र निरूपितम् । तत्रैव शुद्धयोगत्वमन्यत्र नैव दृश्यते ॥ ८७ ॥ सर्वदर्शनशास्त्राणामध्ययनं कृतं मया । गुरुदेवस्य सामीप्ये, काश्यां निवसता खलु ॥८८॥ ततोऽनु गुरुदेवानां, निकटे योगशास्त्रकम् । अन्येऽपि योगग्रन्धाश्च, पठिता बहुप्रेमतः ॥८६॥ गुरुकृपाकटाक्षेण, योगाध्ययनकं कृतम् । यावज्ज्ञानं गुरोश्चैव, आगतं मम पार्श्वके ॥६०॥ तावत्ततः समादाय, पश्चादनुभवः कृतः । ततोऽनुभवयोगेन, यत्प्राप्तं तन्निरूपितम् ॥१॥ योगप्रदीपशास्त्रस्य, निर्माणं च यतः कृतम् । तत्सहायक ग्रन्थानां, नामोल्लेखो विधीयते ॥ ६२॥ योगद्वात्रिंशिका योग विंशतिका तथा खल | योगशास्त्रं च योगदृष्टिसमुच्चयशास्त्रकम् ॥६३॥