________________
-प्रदीप
[१३] अध्यात्मसारशास्त्रं च, शास्त्रवार्तादयस्तथा । तत्त्वार्थसूत्रवृत्तिश्च, ज्ञानार्णवश्व पुस्तकम् ॥६४॥ .. अध्यात्मोपनिषच्चैव, ज्ञानसाराष्टकं तथा । अष्टकं हारिभद्रीयं, देवधर्मपरीक्षणम् ॥६॥ पातञ्जलीययोगश्च, भोजवृत्त्यादिकं तथा। भाष्यं च योगसूत्रीयं, हठयोगस्य दीपिका ॥६६॥ इत्याद्यनेकग्रन्थानां, सहायेन कृतः खलु । योगप्रदीपग्रन्थश्च, युक्तियुत्तया निरूपितः ॥१७॥ महाग्रन्थे च तादृक्षे, निर्माणे कौशलं नहि । अतश्च त्रुटयो वहव्यः, सन्ति मम प्रमादतः ॥८॥ अथवाऽज्ञानदोषेण, नाश्चर्य तत्र विद्यते । कृपां कृत्वा च सन्तस्तु, सूचयन्ति स्वभावतः ॥६E पुनरावृत्तिकर्तव्ये, लभन्ते चोपयोगताम् । अतः कृपां विधायैव, सज्जनाः सूचयन्तु वै ॥१० महोपकारिसूरीणां, गुरूणां कृपया खलु । ग्रन्थस्यपूर्णताज्ञेया, प्रशस्त्यादिनिरूपणात् ॥१०१ मादृशां पशुप्रायाणां, ताहरज्ञानं कुतो भवेत् । गुरुदेवप्रसादेन, सर्वकार्य प्रजायते ॥१०२॥