________________
-प्रदीप
काष्टोपानहाचैव, त्रसजीवस्य पीडनम् । बादुल्येन प्रजायेत, ततो यमस्य शून्यता ॥७६॥ मृषावादस्वरूपस्य, यदि ज्ञानं न विद्यते । तदा कथं च सत्यत्वं, पाल्यते तादृशैर्जनैः ॥७७॥ अग्निकायसमारम्भः, बहुविधेन दृश्यते ।
#
अष्कायस्य समारम्भः, दिवानिशं च तत्र वै ॥७८ वायुकाय समारम्भः, व्यजनेन विधाप्यते । वनस्पतेस्तु का वार्त्ता, सर्वथा सर्वदा किल ॥७६॥ अतस्तेषु न साधुत्वं, महाव्रतस्थ शून्यतः । योगित्वस्य तु का वार्ता, यमाभावेन ज्ञायताम् ॥ यमस्य सर्वथाऽभावे, नियमस्यापि शून्यता । अग्रे च योगसामग्री, तत्पार्श्वे नैव तिष्ठति ॥ ८१ ॥ योगाभावे च योगित्वं, कथं परैर्निरूप्यते । पालनं शुद्धयोगानां यत्र तत्रैव योगिता ॥ ८२ ॥ जैन दर्शनशास्त्रं च, सर्वथा योगरूपकम् । अहिंसा संयमानां च निरूपणं पदे पदे ॥८३॥ आत्मविशुद्धमार्गेण, विनाऽन्यन्नैव दृश्यते । सर्वज्ञताममन्तॄणामधःपातः पदे पदे ॥ ८४ ॥
[ ११ ]