________________
[१०]
योग
सम्यग्दृष्टिमनुष्याणां, यस्य कस्यापि शास्त्रकम् । यद्धस्ते च समायाति, तत्सर्वं शुद्धरूपकम् ॥३७॥ मिथ्यादृष्टिमनुष्याणां, विशुद्धमपि शास्त्रकम् । परिणमति मिथ्यात्वरूपेण, दोषदृष्टितः ॥६॥ अतो मिथ्यात्वसद्भावः, यस्य हृदि च विद्यते । विशुद्धयोगसद्भावः, तस्यापि दुर्लभो मतः ॥६६॥ महाव्रतं विना नैव, योगमार्गस्तु लभ्यते । नवकोटित्वरूपेण, अन्यत्र न प्ररूपणम् ॥७॥ अहिंसादियमानां च, न विशुद्धनिरूपणम् । जैनदृष्टिं विनाऽन्यत्र, कदापि दृश्यते खलु ॥७॥ नवकोटिविशुद्ध च, महाव्रतस्य पालनम् ।। तदपि नैव कुत्रचिज्जैनदृष्टिं विना भवेत् ॥७२॥ स्थावरजीवजन्तूनां, पालनं नैव कुत्रचित् । अन्यत्र भक्षणं तेषां, बाहुल्येन निगद्यते ॥७३॥ जैनेतरीयसाधूनां, चानन्तकायभक्षणम् । अतीव प्रेमरूपेण, जायते सर्वदा किल ॥७॥ साधुषु तादृशं तर्हि, गृहस्थानां तु का कथा । अतो यमस्य शून्यत्वं, सर्वथा तत्र विद्यते ॥७॥