________________
[१
-प्रदीप कर्मागमनिरोधश्च, संवरेण विधीयते । प्राचीनकर्मशाटश्च, निर्जरातः प्रजायते ॥५॥ अहिंसासत्यमस्तेयं, सन्तोषो ब्रह्मचर्यकम् । कर्मजलतटाकाच, कर्मजलनिरोधनम् ॥५६॥ क्रियते यमयोगेन, जलाऽऽगतिनिरोधनम् । तपोध्यानादिद्वारेण, प्राचीनकर्मशाटनम् ॥३०॥ तत आत्मप्रदेशेभ्यः, निष्कासनं विधीयते । संवरात्कर्मनैरोधः, निष्कासो निर्जरादितः ॥६१॥ ततश्च शुद्धरूपत्वं, आत्मन्येव प्रजायते । मोक्षः स एव मन्तव्यः, विशुद्धो जैनशासने ॥६२ अतोऽन्यदीययोगेन, मोक्षप्राप्तिश्च नो भवेत् । स्वरूपे भ्रान्तिरूत्वाद् भ्रान्तं, च प्रतिपादितम् ॥६३ सर्वज्ञशुद्धरूपत्वं यत्र, योगे न वर्णितम् । तं विन। ध्यानसद्भावः, नागच्छति कदाचन ॥६४॥ विना ध्यानेन चिच्छुद्धिः, जायते नैव कर्हि चित् । कर्मापगमशून्येन, मलहानिश्च नो भवेत् ॥६५॥ शुद्धदृष्ट्या विचारे तु, जैनानां नैव दोषता। सर्वनयावलम्बित्वं, जैनशासनसम्मतम् ॥६६॥