________________
[८]
-योग
निरुक्तिश्च षडेवात्र, वेदाङ्गानि च वैदिके॥ आचाराङ्गादिशास्त्राणामङ्गत्वं नैव कीर्तितम् ।४६॥ यत्र तेषां च नाङ्गत्वं, पठन-पाठनं कुतः ॥ तेन विना न वक्तव्यः, उपाध्ययस्तु तन्मते ॥५०॥ जैनदर्शनशास्त्रे च, आचाराङ्गादिपाठनम् ॥ पठनं साधुभिः सर्वैः, क्रियते सर्वदा तथा ॥५१॥ तेषां च पाठकानां, वै उपाध्यायपदं मतम् ॥ अन्येषां पाठकानां, च तत्पदं नैव सम्मतम् ॥५२॥ अतो हि जैनशास्त्रानुसारेण, तत्र जल्पनम् ॥ ऋषिणा सत्यरूपेण, कृतमिति च मन्यताम् ॥५३॥ तद्धृदिशुद्धजैनत्ववासना विद्यते यका ॥ तया च तेन तत्रैव, शुद्धरूपं प्ररूपितम् ॥५४॥ हठयोगादियोगेष, केवलं लोकरञ्जनम् ॥ आत्मशुद्धित्वलेशोऽपि, विद्यते न कदाचन ॥५॥ नोलिधौत्यादिकर्तव्ये, बस्तिक्रियादिके तथा ॥ कष्टं शारीरिकं तत्र, आत्माभिमुखता नहि ॥५६॥ आत्मशुद्धिविधातव्ये, एष मार्गों न कीर्तितः ॥ संवरनिर्जरारूप: विशुद्धः परिवर्णितः ॥७॥