________________
[१२२]
योगकायचापल्यभावेन, अस्थिरताऽऽसने मता। स्थानासनेऽस्थिरत्बेन, स्थैर्य नैव प्रजायते ॥६६॥ कायदुष्पणिधानाख्या, नवमेऽप्यतिचारता । कायदुष्पणिधानञ्च, न कर्तव्यं कदाचन ॥१७॥ वर्णसंस्कारका भावे, शुद्धमुच्चारणं नहि । न तेनार्थावबोधःस्यात्सा वाग्दुष्पाणिधानता॥१८॥ द्रोहे.ाक्रोधलोभानां, गर्वादीनां तथैव च । मनस्येवं प्रजायन्ते, व्यासङ्ग नैव विभ्रमाः ॥६६॥ मनो दुष्प्रणिधानञ्च, तत्करणेन प्रजायते । तादृशं नैव सेव्यं वै, सेवने चातिचारता ॥१०॥ सामायिके समत्वे च, आत्मनः शुद्धरूपके । अनुत्साहो न कर्तव्यः, कर्तव्ये चातिचारता॥१०१॥ पश्चात्स्मृति विनाशेन, कृत्वा सामायिके स्थितः । कृतं नवेति ज्ञानं न, अतिचारस्ततस्तथा ॥१०२॥ उपयोगे समायः स्याद्, विस्मरणे सदोषता। दोषागमो न जायेत, अतःस्यात्सावधानता ॥१०॥ आनय प्रेष्य प्रायोगी, शब्दरूपानुपातको ।
१-इत्याख्यः
व्यः