SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [ १२१ ] युक्ताधिकरणं तच्च, कथ्यते भवभीरुणा । महारंभनिमित्तं तत् कर्तव्यं न कदाचन ॥ ८॥ अतिचारो न कर्तव्यः ज्ञातव्यो व्रतधारिणा । अनर्थदण्डहेये च, अतिचारश्चतुर्थकः ॥८८॥ यावद्वस्त्रादिकानाञ्च मध्ये येषां प्रयोजनम् । मन्तव्यमुपभोगाधिकं तथा ॥ ८ ॥ तदधिकञ्च अधिकस्योपभोगस्य, रक्षणे दोषता खलु । अधिकं रक्षणीयं न अष्टमव्रतधारिणा ॥६०॥ रक्षणेऽप्यतिचारश्च मनस्येवश्च भाव्यताम् । अनालोच्य समारंभे, अतिचारोऽष्टमे मतः ॥ ६१॥ षष्टसप्तमयोश्चैव, अष्टमस्य तथैव च । गुणव्रतं कृतं नाम, अणुव्रतगुणाकरम् ॥६२॥ मनोवचनकायैश्च, दुष्प्रणिधाप्यनादरः । स्मृत्यनवप्रतिस्थाप्यः नवमेऽप्यतिचारता ॥ ६३ ॥ व्रतविषयिणी शिक्षा, यत्र सुचारु विद्यते । अन्त्यतूर्य व्रतानाच, शिक्षाव्रताभिधानता ॥६४॥ शरीरस्य विभागानां, पाणीनाञ्च पदां तथा । अव्यवस्थितरीत्यैव, सामायिके च स्थापनम् ॥६५॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy